|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.15. अध्यायः 015
Mahabharata - Karna Parva - Chapter Topics
कर्णनकुलयोर्युद्धम्॥ 1 ॥ कर्णेन नकुलस्य पराभावनपूर्वकं सोपहासमधिक्षेपः॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-15-0x(4863)(55572)
नकुलं रभसं युद्धे द्रावयन्तं वरूथिनीम्।
कर्णो वैकर्तनो राजन्वारयामास वै रुषा॥ 8-15-1(55573)
नकुलस्तु ततः कर्णं प्रहसन्निदमब्रवीत्॥
चिरस्य बत दृष्टोऽहं दैवतैः सौम्यचक्षुषा। 8-15-2(55574)
यस्य मे त्वं रणे पाप चक्षुर्विषयमागतः॥
त्वं हि मूलमनर्थानां वैरस्य कलहस्य च। 8-15-3(55575)
त्वद्दोषात्कुरवः क्षीणाः समासाद्य परस्परम्।
त्वामद्य समरे हत्वा कृतकृत्योऽस्मि विज्वरः॥ 8-15-4(55576)
एवमुक्तः प्रत्युवाच नकुलं सूतनन्दनः।
सदृशं राजपुत्रस्य धन्विनश्च विशेषतः॥ 8-15-5(55577)
प्रहरस्व च मे वीर पश्यामस्तव पौरुषम्।
कर्म कृत्वा रमे शूर ततः कत्थितुमर्हसि॥ 8-15-6(55578)
अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः।
प्रयुध्यस्व मया शक्त्या हनिष्ये दर्पमेव ते॥ 8-15-7(55579)
इत्युक्त्वा प्राहरत्तूर्णं पाण्डुपुत्राय सूतजः।
विव्याध चैनं समरे त्रिसप्तत्या शिलीमुखैः॥ 8-15-8(55580)
नकुलस्तु ततो विद्वः सूतपुत्रेण भारत।
अशीत्याऽऽशीविषप्रख्यैः सूतपुत्रमविध्यत॥ 8-15-9(55581)
तस्य कर्णो धनुश्छित्त्वा स्वर्णपुङ्खैः शिलाशितैः।
त्रिंशता परमेष्वासः शरैः पाण्डवमर्दयत्॥ 8-15-10(55582)
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे।
आशीविषा यथा नागा भित्त्वा गां सलिलं पपुः॥ 8-15-11(55583)
अथान्यद्वनुरादाय हेमपृष्ठं दुरासदम्।
कर्णं विव्याध सप्तत्या सारथिञ्च त्रिभिः शरैः॥ 8-15-12(55584)
ततः क्रुद्धो महाराज नकुलः परवीहा।
क्षुरप्रेण सुतीक्ष्णेन कर्णस्य धनुराच्छिनत्॥ 8-15-13(55585)
अथैनं छिन्नधन्वानं सायकानां शतैस्त्रिभिः।
आजघ्ने प्रहसन्वीरः सर्वलोकमहारथम्॥ 8-15-14(55586)
कर्णमभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष।
विस्मयं परमं जग्मुर्ऋषयः सह दैवतैः॥ 8-15-15(55587)
अथान्यद्वनुरादाय कर्णो वैकर्तनस्तदा।
नकुलं पञ्छभिर्बाणैर्जत्रुदेशे समार्पयत्॥ 8-15-16(55588)
उरस्थैरथ तैर्बाणैर्माद्रीपुत्रो व्यरोचत।
स्वरश्मिभिरिवादित्यो भुवने विसृजन्प्रभाम्॥ 8-15-17(55589)
नकुलस्तु ततः कर्णं विद्व्वा सप्तभिराशुगैः।
अथास्य धनुषः कोटिं पुनश्चिच्छेद मारिष॥ 8-15-18(55590)
सोऽन्यत्कार्मुकमादाय समरे वेगवत्तरम्।
नकुलस्य ततो बैणैः समन्ताच्छादयद्दिशः॥ 8-15-19(55591)
सञ्छाद्यमानः सहसा कर्णचाप्युतैः सरैः।
चिच्छेद स शरांस्तूर्णं शरैरेव महारथः॥ 8-15-20(55592)
ततो बाणमयं जालं विततं व्योम्न्यदृश्यत।
खद्योतानामिव व्रातैः सम्पतद्भिर्यथा नभः॥ 8-15-21(55593)
तैर्विमुक्तैः शरशतैश्छादितं गगनं तदा।
शलभानां यथा व्रातैस्तद्वदासीद्विशाम्पते॥ 8-15-22(55594)
ते शरा हेमविकृताः सम्पन्तौ मुहुर्मुहुः।
श्रेणीकृता व्यकाशान्त क्रौञ्चाः श्रेणीकृता इव॥ 8-15-23(55595)
बाणजालवृते व्योम्नि च्छादिते च दिवाकरे।
न स्म सम्पतते भूतं किञ्चिदप्यन्तरिक्षगम्॥ 8-15-24(55596)
निरुद्वे तत्र मार्गे च शरसङ्घैः समन्ततः।
व्यरोचेतां महात्मानौ कालसूर्याविवोदितौ॥ 8-15-25(55597)
कर्णचापच्युतैर्बाणैर्वध्यमानास्तु सोमकाः।
अवालीयन्त राजेन्द्र वेदनार्ता भूशार्दिताः॥ 8-15-26(55598)
नकुलस्य तथा बाणैर्हन्यमाना चमूस्तव।
व्यशीर्यत दिशो राजन्वातनुन्ना इवाम्बुदाः॥ 8-15-27(55599)
ते सेने हन्यमाने तु ताभ्यां दिव्यैर्महाशरैः।
शरपातमपाक्रम्य तस्थतुः प्रेक्षिके तदा॥ 8-15-28(55600)
प्रोत्सारितजने तस्मिन्कर्णपाण्डवयोः शरैः।
अविध्येतां महात्मानावन्योन्यं शरवृष्टिभिः॥ 8-15-29(55601)
विदर्शयन्तौ दिव्यानि शस्त्राणि रणमूर्धनि।
छादयन्तौ च सहसा परस्परवधैषिणौ॥ 8-15-30(55602)
नकुलेन शरा मुक्ता कङ्कबर्हिणवाससः।
सूतपुत्रमवच्छाद्य व्यतिष्ठन्त यथाऽम्बरे॥ 8-15-31(55603)
तथैव सूतपुत्रेण प्रेषिताः परमाहवे।
पाण्डुपुत्रमवच्छाद्य व्यतिष्ठन्ताम्बरे शराः॥ 8-15-32(55604)
शरवेश्मप्रविष्टौ तौ ददृशाते न कैश्चन।
सूर्याचन्द्रमसौ राजञ्छाद्यमानौ घनैरिव॥ 8-15-33(55605)
ततः क्रुद्धो रणे कर्णः कृत्वा घोरतरं वपुः।
पाण्डवं छादयामास समन्ताच्छरवृष्टिभिः॥ 8-15-34(55606)
सोऽतिच्छन्नो महाराज सूतपुत्रेण पाण्डवः।
न चकार व्यथां राजन्भास्करो जलदैर्यथा॥ 8-15-35(55607)
ततः प्रहस्याधिरथिः शरजालानि मारिष।
प्रेषयामास समरे शतशोऽथ सहस्रशः॥ 8-15-36(55608)
एकच्छायमभूत्सर्वं तस्य बाणैर्महात्मनः॥
अभ्रच्छायेव सञ्जज्ञे सम्पतद्भिः शरोत्तमैः॥ 8-15-37(55609)
ततः कर्णो महाराज धनुश्छित्त्वा महात्मनः।
सारथिं पातयामास रथनीडाद्वसन्निव॥ 8-15-38(55610)
ततोऽश्वांश्छतुरश्चास्य चतुर्भिर्निशितैः शरैः।
यमस्य भवनं तूर्णं प्रेषयामास भारत॥ 8-15-39(55611)
अथास्य तं रथं दिव्यं तिलशो व्यधमच्छरैः।
पताकां चक्ररक्षांश्च गदां खङ्गं च मारिष॥ 8-15-40(55612)
शतचन्द्रं च तच्चर्म सर्वापकरणानि च।
`सुवर्णविकृतं तच्च धनुः शरमाहवे'॥ 8-15-41(55613)
हताश्वो विरथश्चैव विवर्मा च विशाम्पते।
अवतीर्य रथात्तूर्णं परिघं गृह्य धिष्ठितः॥ 8-15-42(55614)
तमुद्यतं महारघोरं परिघं तस्य सूतजः।
व्यहनत्सायकै राजन्सुतीक्ष्णैर्भारसाधनैः॥ 8-15-43(55615)
व्यायुधं चैनमालक्ष्य शरैः सन्नतपर्वभिः।
आर्पयद्बहुभिः कर्णो न चैनं समपीडयत्॥ 8-15-44(55616)
स हन्यमानः समरे कृतास्त्रेण बलीयसा।
प्राद्रवत्सहसा राजन्नकुलो व्याकुलेन्द्रियः॥ 8-15-45(55617)
तमभिद्रुत्य राधेयः प्रहसन्वै पुनःपुनः।
सज्यमस्य धनुः कण्ठे व्यवासृजत भारत॥ 8-15-46(55618)
ततः स शुशुभे राजन्कण्ठासक्तमहाधनुः।
परिवेषमनुप्राप्तो यथा स्याद्व्योम्नि चन्द्रमाः॥ 8-15-47(55619)
यथैव चासितो मेघः शक्रचापेन शोभितः।
`अशोभत महाराज पाण्डुपुत्रस्तथा रणे'॥ 8-15-48(55620)
तमब्रवीत्ततः कर्णो व्यर्थं व्याहृतवानसि।
वदेदानीं पुनर्हृष्टो वध्यमानः पुनःपुनः॥ 8-15-49(55621)
मा योत्सीः कुरुभिः सार्धं बलवद्भिश्च पाण्डव।
सदृशैस्तात युध्यस्व व्रीडां मा कुरु पाण्डव॥ 8-15-50(55622)
गृहं वा गच्छ माद्रेय यत्र वा कृष्णफल्गुनौ।
एवमुक्त्वा महाराज विससर्ज स तं तदा॥ 8-15-51(55623)
वधप्राप्तं तु तं शूरो नाहनद्वर्मवित्तदा।
स्मृत्वा कुन्त्या वचो राजंस्तत एनं व्यसर्जयत्॥ 8-15-52(55624)
विसृष्टः पाण्डवो राजन्सूतपुत्रेण धन्विना।
व्रीडन्निव जगामाथ युधिष्ठिररथं प्रति॥ 8-15-53(55625)
आरुरोह रथं चापि सूतपुत्रप्रतापितः।
निःश्वसन्दुःखसन्तप्तः कुम्भक्षिप्त इवोरगः॥ 8-15-54(55626)
तं विजित्याथ कर्णोऽपि पाञ्चालांस्त्वरितो ययौ।
रथेनातिपताकेन चन्द्रवर्णहयेन च॥ 8-15-55(55627)
तत्राक्रन्दो महानासीत्पाण्डवानां विशाम्पते।
दृष्ट्वा सेनापतिं यान्तं पाञ्चालानां रथव्रजान्॥ 8-15-56(55628)
तत्राकरोन्महाराज कदनं सूतनन्दनः।
मध्यं प्राप्ते दिनकरे चक्रवद्विचरन्प्रभुः॥ 8-15-57(55629)
भग्नचक्रै रथैः कैश्चिच्छिन्नध्यवजपताकिभिः।
हताश्वैर्हतसूतैश्च भग्नाक्षैश्चैव मारिष।
हियमाणानपश्याम पाञ्चालानां रथव्रजान्॥ 8-15-58(55630)
तत्रतत्र च सम्भ्रान्ता विचेरुरथ कुञ्जराः।
दावाग्न्यभिपरीताङ्गा यथैव स्युर्महावने॥ 8-15-59(55631)
भिन्नकुम्भाः सरुधिराश्छिन्नहस्ताश्च वारणाः।
छिन्नगात्रावराश्चैव च्छिन्नवालधयोऽपरे।
छिन्नाभ्राणीव सम्पेतुर्हन्यमाना महात्मना॥ 8-15-60(55632)
अपरे त्रासिता नागा नाराचशरतोमरैः।
तमेवाभिमुखं जग्मुः शलभा इव पावकम्॥ 8-15-61(55633)
अपरे निष्टनन्तश्च व्यदृश्यन्त महाद्विपाः।
क्षरन्तः शोणितं गात्रैर्नगा इव जलस्रवाः॥ 8-15-62(55634)
उरश्छदैर्वियुक्तांश्च वालबन्धैश्च वाजिनः।
राजतैश्च तथा कांस्यैः सौवर्णैश्चैव भूषणैः॥ 8-15-63(55635)
हीनांश्चाभरणैश्चैव खलीनैश्च विवर्जितान्।
चामरैश्च कुथाभिश्च तूणीरैः पतितैरपि॥ 8-15-64(55636)
निहतैः सादिभिश्चैव शूरैराहवशोभितैः।
अपश्याम रणे तत्र भ्राम्यमाणान्हयोत्तमान्॥ 8-15-65(55637)
प्रासैः खङ्गैश्च रहितानृष्टिभिश्चापि भारत।
हयसादीनपश्याम कञ्चुकोष्णीषधारिणः॥ 8-15-66(55638)
निहतान्वध्यमानांश्च वेपमानांश्च भारत।
नागाङ्गावयवैर्हीनांस्तत्रतत्रैव भारत॥ 8-15-67(55639)
रथान्हेमपरिष्कारान्संयुक्ताञ्जवनैर्हयैः।
भ्राम्यमाणानपश्याम हतेषु रथिषु द्रुतम्॥ 8-15-68(55640)
भग्नाक्षकूबरान्कांश्चिद्भग्नचक्रांश्च भारत।
विपताकध्वजांश्चान्याञ्छिन्नेषादण्डबन्धुरान्॥ 8-15-69(55641)
विहीनान्रथिनस्तत्र धावमानांस्ततस्ततः।
सूतपुत्रशरैस्तीक्ष्णैर्हन्यमानान्विशाम्पते॥ 8-15-70(55642)
विशस्त्रांश्च तथैवान्यान्सशस्त्रांश्च हतान्बहून्।
तारकाजालसञ्छन्नान्वरघण्टाविशोभितान्॥ 8-15-71(55643)
नानावर्णविचित्राभिः पताकाभिरलङ्कृतान्।
वारमआननुपश्याम धावमानान्समन्ततः॥ 8-15-72(55644)
शिरांसि बाहूनूरूंश्च च्छिन्नानन्यांस्तथैव च।
कर्णचापच्युतैर्बाणैरपश्याम समन्ततः॥ 8-15-73(55645)
महान्व्यतिकरो रौद्रो योधानामन्वपद्यत।
कर्णसायकनुन्नानां युध्यतां च शितैः शरैः॥ 8-15-74(55646)
ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः।
तमेवाभिमुखं यान्ति पतङ्गा इव पावकम्॥ 8-15-75(55647)
तं दहन्तमनीकानि तत्रतत्र महारथम्।
क्षत्रिया वर्जयामासुर्युगान्ताग्निमिवोल्बणम्॥ 8-15-76(55648)
हतशेषास्तु ये वीराः पाञ्चालानां महारथाः।
तान्प्रभग्रान्दुतान्वीरः पृष्ठो विकिऱञ्छरैः।
अभ्यधावत तेजस्वी विशीर्णवचनध्वजान्॥ 8-15-77(55649)
तापयामास तान्बाणैः सूतपुत्रो महाबलः।
मध्यन्दिनमनुप्राप्तो भूतानीव तमोनुदः॥ ॥ 8-15-78(55650)
इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे पञ्चदशोऽध्यायः॥ 15 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-15-1 रभसं रणोत्सुकम्॥ 8-15-11 आशीविषा यथा राजन्भित्त्वा गां सलिलं भृशम्। इति क.ख.ट.पाठः॥ 8-15-25 बालसूर्याविवोदितौ इति ख.पाठः॥ 8-15-37 एकबाणमभूत्सर्वं इति क.ट.पाठः॥ 8-15-58 म्रियमाणान्पश्याम इति क.ख.ट.पाठः॥ 8-15-67 नागाङ्गावयवैरित्यर्धं झ.पुस्तकएव दृश्यते॥ 8-15-15 पञ्चदशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|